Monday, July 21, 2025
spot_img
Homeअष्टकमSri Nandakumara Ashtakam

Sri Nandakumara Ashtakam

सुन्दरगोपालम् उरवनमालंनयनविशालं दुःखहरं।
वृन्दावनचन्द्रमानन्दकन्दंपरमानन्दं धरणिधर
वल्लभघनश्यामं पूर्णकामंअत्यभिरामं प्रीतिकरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥1॥

सुन्दरवारिजवदनं निर्जितमदनंआनन्दसदनं मुकुटधरं।
गुञ्जाकृतिहारं विपिनविहारंपरमोदारं चीरहर
वल्लभपटपीतं कृतउपवीतंकरनवनीतं विबुधवरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥2॥

शोभितमुखधूलं यमुनाकूलंनिपटअतूलं सुखदतरं।
मुखमण्डितरेणुं चारितधेनुंवादितवेणुं मधुरसुर
वल्लभमतिविमलं शुभपदकमलंनखरुचिअमलं तिमिरहरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥3॥

शिरमुकुटसुदेशं कुञ्चितकेशंनटवरवेशं कामवरं।
मायाकृतमनुजं हलधरअनुजंप्रतिहतदनुजं भारहर
वल्लभव्रजपालं सुभगसुचालंहितमनुकालं भाववरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥4॥

इन्दीवरभासं प्रकटसुरासंकुसुमविकासं वंशिधरं।
हृतमन्मथमानं रूपनिधानंकृतकलगानं चित्तहर
वल्लभमृदुहासं कुञ्जनिवासंविविधविलासं केलिकरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥5॥

अतिपरप्रवीणं पालितदीनंभक्ताधीनं कर्मकरं।
मोहनमतिधीरं फणिबलवीरंहतपरवीरं तरलतर
वल्लभव्रजरमणं वारिजवदनंहलधरशमनं शैलधरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥6॥

जलधरद्युतिअङ्गं ललितत्रिभङ्गंबहुकृतरङ्गं रसिकवरं।
गोकुलपरिवारं मदनाकारंकुञ्जविहारं गूढतर
वल्लभव्रजचन्द्रं सुभगसुछन्दंकृतआनन्दं भ्रान्तिहरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥7॥

वन्दितयुगचरणं पावनकरणंजगदुद्धरणं विमलधरं।
कालियशिरगमनं कृतफणिनमनंघातितयमनं मृदुलतर
वल्लभदुःखहरणं निर्मलचरणम्अशरणशरणं मुक्तिकरं।
भज नन्दकुमारं सर्वसुखसारंतत्त्वविचारं ब्रह्मपरम्॥8॥

॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥

Worldwide News, Local News in London, Tips & Tricks

- Advertisement -

Previous article
Next article