*****
कर्पूरगौर करूणावतारं, संसार सारं भुजगेन्द्रहारम्।
सदा वसन्तं हृदयारविन्दे, भवं भवानी सहितं नमामि ॥
गजाननं भूतगणादिसेवितं, कपित्थजम्बूफल चारू भक्षणम्।
उमासुतं शोकविनाशकारकं, नमामि विघ्नेश्वरपादपंकजम्।।
नीलाम्बुज श्यामलकोमलांग, सीतासमारोपितवाम भागम्।
पाणौ महासायक-चारूचापं, नमामि रामं रघुवंशनाथम्।।
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वम मम वेव वेवा॥